Quantcast
Channel: sanskrit
Viewing all articles
Browse latest Browse all 134

संस्कृत में कहानी–दैवमेव परम्

$
0
0

संस्कृत में लघु कथा या कहानी सुनना या पढ़ना एक लाभप्रद कार्य है। मैंने कुछ समय पहले ही संस्कृत भाषा का अध्य्यन आरम्भ किया। व्याकरण के अभ्यास के लिये मुझे ये लघु कथायें बहुत ही अनुकूल जान पड़ती हैं।

कुछ कहानियाँ शिक्षा प्रदायक अथवा कुछ जीवन के विभिन्न अङ्गों को दर्शाने वाली होती हैं। कुछ कहानियों की शिक्षा सूक्तियों के रूप में भी प्रसिद्ध हो जाती है।

ऐसी ही एक कथा मैं आपके लिये लाया हूँ। इस कथा से मिलती जुलती एक सूक्ति आपको चाणक्य नीति में भी मिलेगी।

यदि आप कोई सुझाव अथवा टिप्पणी देना चाहें तो अवश्य लिखें।

संस्कृत भाषा में कथा–दैवमेव परम्

एकः अहितुण्डिकः अासीत्। सः सर्पान् गृहीत्वा जीवनं करोति स्म। एकदा सः एकं सर्पम् आनयति। सर्पं पेटिकायां स्थापयति च। प्रतिदिनं सर्पस्य प्रदर्शनं करोति। जीवनं करोति।

कदाचित् अहितुण्डिकः अन्यं ग्रामम् अगच्छत्। तस्य पत्नी पुत्राः अपि अगच्छन्। सर्पः पेटिकायाम् एव बद्धः आसीत्। पञ्च दिनानि अभवन्।

अहितुण्डिकः न आगच्छत्। सर्पस्य आहारः एव नास्ति। सः पेटिकातः बहिः गमनाय प्रयत्नम् अकरोत्। सः बुभुक्षितः आसीत्। अतः शक्तिः नास्ति। विफलः अभवत्।

तदा पेटिकासमीपे एकः मूषकः आगच्छत्। सः पेटिकाम् अपश्यत्।

पेटिकायां भक्ष्याणि सन्ति

इति मूषकः अचिन्तयत्।

रन्ध्रं करोमि

इति सः निश्चयम् अकरोत्।

अनन्तरं सः रन्ध्रं कृत्वा अन्तः प्रवेशम् अकरोत्। मूषकः सर्पस्य मुखे एव अपतत्। सर्पः मूषकम् अखादत्। तेन रन्ध्रेण एव बहिः आगच्छत्।

अहो। सर्पस्य सौभाग्यम्। मूषकस्य दौर्भाग्यम्।

(इस कहानी का संस्कृत रूप संस्कृतभारती के द्वारा प्रकाशित पत्रालयद्वारा संस्कृतम् पत्रिका के षष्ठिभाग में से लिया गया है)


Viewing all articles
Browse latest Browse all 134

Trending Articles